🪷 Ṛgveda 6.43

Ṣaṣṭha-Maṇḍala · Sūkta 43

४ बार्हस्पत्यो भरद्वाज: । इन्द्र: ।उष्णिक् । यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो॑दासाय र॒न्धय॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥१॥ यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं॑ च॒ रक्ष॑से । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥२॥ यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे॑ दृ॒ळ्हा अ॒वासृ॑जः । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥३॥ यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो॑नं दधि॒षे शव॑: । अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ॥४॥
— Ṛgveda Maṇḍala 6 · Sūkta 43 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷