🪷 Ṛgveda 4.27

Caturtha-Maṇḍala · Sūkta 27

५ वामदेवो गौतमः। श्येनः, ५ इन्द्रो वा। त्रिष्टुप्, ५ शक्वरी। गर्भे॒ नु सन्नन्वे॑षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा॑ । श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ॥१॥ न घा॒ स मामप॒ जोषं॑ जभारा॒ऽभीमा॑स॒ त्वक्ष॑सा वी॒र्ये॑ण । ई॒र्मा पुरं॑धिरजहा॒दरा॑तीरु॒त वाताँ॑ अतर॒च्छूशु॑वानः ॥२॥ अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद् यदि॒ वात॑ ऊ॒हुः पुरं॑धिम् । सृ॒जद् यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ॥३॥ ऋ॒जि॒प्य ई॒मिन्द्रा॑वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः । अ॒न्तः प॑तत् पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद् वेः ॥४॥ अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा॑पिप्या॒नं म॒घवा॑ शु॒क्रमन्ध॑: । अ॒ध्व॒र्युभि॒: प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा॑य॒ प्रति॑ ध॒त् पिब॑ध्यै॒ शूरो॒ मदा॑य॒ प्रति॑ ध॒त् पिब॑ध्यै ॥५॥
— Ṛgveda Maṇḍala 4 · Sūkta 27 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷