🪷 Ṛgveda 3.13

Tṛtīya-Maṇḍala · Sūkta 13

७ ऋषभो वैश्वामित्रः। अग्निः। अनुष्टुप्। प्र वो॑ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै । गम॑द् दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ॥१॥ ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच॑न्त ऊ॒तय॑: । ह॒विष्म॑न्त॒स्तमी॑ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ॥२॥ स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः । अ॒ग्निं तं वो॑ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ॥३॥ स न॒: शर्मा॑णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा । यतो॑ नः प्रु॒ष्णव॒द् वसु॑ दि॒वि क्षि॒तिभ्यो॑ अ॒प्स्वा ॥४॥ दी॒दि॒वांस॒मपू॑र्व्यं॒ वस्वी॑भिरस्य धी॒तिभि॑: । ऋक्वा॑णो अ॒ग्निमि॑न्धते॒ होता॑रं वि॒श्पतिं॑ वि॒शाम् ॥५॥ उ॒त नो॒ ब्रह्म॑न्नविष उ॒क्थेषु॑ देव॒हूत॑मः । शं न॑: शोचा म॒रुद्वृ॒धोऽग्ने॑ सहस्र॒सात॑मः ॥६॥॥ नू नो॑ रास्व स॒हस्र॑वत् तो॒कव॑त्पुष्टि॒मद् वसु॑ । द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ॥७॥॥
— Ṛgveda Maṇḍala 3 · Sūkta 13 · Devanāgarī with Vedic svaras (udātta · anudātta · svarita) preserved

Navigation

🪷 ॐ 🪷