🪷 Mahābhārata · Ādi-Parva · Chapter 218

The Book of the Beginning · Parva 1 · 50 unique Sanskrit addresses · pinned Critical Edition-derived witness

The Devanāgarī Yathārtha · 50 Shlokas

MBh 1.218.1
वैशंपायन उवाच तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन्
MBh 1.218.2
शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः छादयामास तद्वर्षमपकृष्य ततो वनात्
MBh 1.218.3
न च स्म किंचिच्छक्नोति भूतं निश्चरितुं ततः संछाद्यमाने खगमैरस्यता सव्यसाचिना
MBh 1.218.4
तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा
MBh 1.218.5
अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात्
MBh 1.218.6
न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः मोक्षयामास तं माता निगीर्य भुजगात्मजा
MBh 1.218.7
तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी
MBh 1.218.8
तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः
MBh 1.218.9
तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् मोहयामास तत्कालमश्वसेनस्त्वमुच्यत
MBh 1.218.10
तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः द्विधा त्रिधा च चिच्छेद खगतानेव भारत
MBh 1.218.11
शशाप तं च संक्रुद्धो बीभत्सुर्जिह्मगामिनम् पावको वासुदेवश्च अप्रतिष्ठो भवेदिति
MBh 1.218.12
ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः योधयामास संक्रुद्धो वञ्चनां तामनुस्मरन्
MBh 1.218.13
देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः
MBh 1.218.14
ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान्
MBh 1.218.15
तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः
MBh 1.218.16
तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः
MBh 1.218.17
क्षणेन चाभवद्व्योम संप्रशान्तरजस्तमः सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम्
MBh 1.218.18
निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत्
MBh 1.218.19
कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहंकृताः समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः
MBh 1.218.20
गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा प्रहर्तुकामाः संपेतुराकाशात्कृष्णपाण्डवौ
MBh 1.218.21
तथैवोरगसंघाताः पाण्डवस्य समीपतः उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः
MBh 1.218.22
तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् विवशाश्चापतन्दीप्तं देहाभावाय पावकम्
MBh 1.218.23
ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः
MBh 1.218.24
अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः
MBh 1.218.25
तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः
MBh 1.218.26
कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा दैत्यदानवसंघानां चकार कदनं महत्
MBh 1.218.27
अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा वेलामिव समासाद्य व्यातिष्ठन्त महौजसः
MBh 1.218.28
ततः शक्रोऽभिसंक्रुद्धस्त्रिदशानां महेश्वरः पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत्
MBh 1.218.29
अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् हतावेताविति प्राह सुरानसुरसूदनः
MBh 1.218.30
ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा
MBh 1.218.31
कालदण्डं यमो राजा शिबिकां च धनेश्वरः पाशं च वरुणस्तत्र विचक्रं च तथा शिवः
MBh 1.218.32
ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि जगृहे च धनुर्धाता मुसलं च जयस्तथा
MBh 1.218.33
पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम्
MBh 1.218.34
प्रगृह्य परिघं घोरं विचचारार्यमा अपि मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत
MBh 1.218.35
पूषा भगश्च संक्रुद्धः सविता च विशां पते आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः
MBh 1.218.36
रुद्राश्च वसवश्चैव मरुतश्च महाबलाः विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा
MBh 1.218.37
एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः
MBh 1.218.38
तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे युगान्तसमरूपाणि भूतोत्सादाय भारत
MBh 1.218.39
तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ
MBh 1.218.40
आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः न्यवारयेतां संक्रुद्धौ बाणैर्वज्रोपमैस्तदा
MBh 1.218.41
असकृद्भग्नसंकल्पाः सुराश्च बहुशः कृताः भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः
MBh 1.218.42
दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः
MBh 1.218.43
शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे बभूव परमप्रीतो भूयश्चैतावयोधयत्
MBh 1.218.44
ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः
MBh 1.218.45
विफलं क्रियमाणं तत्संप्रेक्ष्य च शतक्रतुः भूयः संवर्धयामास तद्वर्षं देवराडथ
MBh 1.218.46
सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः विलयं गमयामास हर्षयन्पितरं तदा
MBh 1.218.47
समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम्
MBh 1.218.48
ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा
MBh 1.218.49
गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः
MBh 1.218.50
तेनावाक्पतता दावे शैलेन महता भृशम् भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः

🪷 The Honest Framing

This chapter belongs to the source-pinned BORI Critical Edition-derived digital witness. Its unique addresses are publicly readable and indexable; this remains a digital-witness claim, not a claim that every Mahābhārata recension agrees word-for-word or that the traditional 100,000-verse extent is represented here.

Navigation

Sources and Connected Readings

Continue from these 50 source-pinned Devanāgarī addresses to Ādi-Parva, the Mahābhārata reading map, and any exact Bhagavad-Gītā correspondence.

MBh 1.218local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharata18-parva Sanskrit reading index with edition and address notesBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation

🪷 जय व्यास भगवान् 🪷