🪷 Mahābhārata · Ādi-Parva · Chapter 155
The Book of the Beginning · Parva 1 · 52 shlokas in canonical Devanāgarī Sanskrit
Mahābhārata Detail Source-Anchor Spine
This chapter page keeps the local Devanāgarī chapter tied to its Parva, the Mahābhārata master route, any exact Gītā cross-anchor, and the wider Vyāsa source spine.
MBh 1.155local chapter route · Ādi-ParvaĀdi-Parvaparent Parva chapter index/mahabharatamaster index for all 18 Parvas and 73,821 ślokasBhīṣma-ParvaMahābhārata Parva 6 · the Gītā lives in chapters 23-40MBh 6.23Bhagavad-Gītā chapter 1 in its Itihāsa homeMBh 6.40Bhagavad-Gītā chapter 18 in its Itihāsa homeRāmopākhyānaVana-Parva 258 · Vyāsa narrates the Rāma-kathā inside Krishna's epicNārāyaṇīyamŚānti-Parva 335 · Nārāyaṇa/Krishna/Viṣṇu/Vāsudeva unity witness/bhagavad-gitadeep Gītā corpus with translations, commentaries, and verse-level anchorsBG 1.1Dharma-kṣetra opening cross-anchored to MBh 6.23.1BG 18.66Carama-Śloka surrender seal inside the Bhīṣma-Parva arcVyāsa vibhūtiBG 10.37 · Krishna names Vyāsa among munisBG 10.37Vyāsa and Dhanañjaya as Krishna-vibhūti source routeŚB 1.2.11Brahman · Paramātmā · Bhagavān as one advaya-tattvaŚB 1.3.28kṛṣṇas tu bhagavān svayam · Vyāsa corpus source seal/binduDiamond of Darśanas · Itihāsa as one Bindu aperture/philosophyKrishna = Paramaatma = Parabrahman constitutional foundation
The Devanāgarī Yathārtha · 52 Shlokas
MBh 1.155.1
[बराह्मण]
अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान
अन्विच्छन परिचक्राम बराह्मणावसथान बहून
MBh 1.155.2
पुत्र जन्म परीप्सन वै शॊकॊपहतचेतनः
नास्ति शरेष्ठं ममापत्यम इति नित्यम अचिन्तयत
MBh 1.155.3
जातान पुत्रान स निर्वेदाद धिग बन्धून इति चाब्रवीत
निःश्वासपरमश चासीद दरॊणं परतिचिकीर्षया
MBh 1.155.4
परभावं विनयं शिक्षां दरॊणस्य चरितानि च
कषात्रेण च बलेनास्य चिन्तयन नान्वपद्यत
परतिकर्तुं नृपश्रेष्ठॊ यतमानॊ ऽपि भारत
MBh 1.155.5
अभितः सॊ ऽथ कल्माषीं गङ्गाकूले परिभ्रमन
बराह्मणावसथं पुण्यम आससाद महीपतिः
MBh 1.155.6
तत्र नास्नातकः कश चिन न चासीद अव्रती दविजः
तथैव नामहा भागः सॊ ऽपश्यत संशितव्रतौ
MBh 1.155.7
याजॊपयाजौ बरह्मर्षी शाम्यन्तौ पृषतात्मजः
संहिताध्ययने युक्तौ गॊत्रतश चापि काश्यपौ
MBh 1.155.8
तारणे युक्तरूपौ तौ बराह्मणाव ऋषिसत्तमौ
स ताव आमन्त्रयाम आस सर्वकामैर अतन्द्रितः
MBh 1.155.9
बुद्ध्वा तयॊर बलं बुद्धिं कनीयांसम उपह्वरे
परपेदे छन्दयन कामैर उपयाजं धृतव्रतम
MBh 1.155.10
पादशुश्रूषणे युक्तः परियवाक सर्वकामदः
अर्हयित्वा यथान्यायम उपयाजम उवाच सः
MBh 1.155.11
येन मे कर्मणा बरह्मन पुत्रः सयाद दरॊण मृत्यवे
उपयाज कृते तस्मिन गवां दातास्मि ते ऽरबुदम
MBh 1.155.12
यद वा ते ऽनयद दविजश्रेष्ठ मनसः सुप्रियं भवेत
सर्वं तत ते परदाताहं न हि मे ऽसत्य अत्र संशयः
MBh 1.155.13
इत्य उक्तॊ नाहम इत्य एवं तम ऋषिः परत्युवाच ह
आराधयिष्यन दरुपदः स तं पर्यचरत पुनः
MBh 1.155.14
ततः संवत्सरस्यान्ते दरुपदं स दविजॊत्तमः
उपयाजॊ ऽबरवीद राजन काले मधुरया गिरा
MBh 1.155.15
जयेष्ठॊ भराता ममागृह्णाद विचरन वननिर्झरे
अपरिज्ञात शौचायां भूमौ निपतितं फलम
MBh 1.155.16
तद अपश्यम अहं भरातुर असांप्रतम अनुव्रजन
विमर्शं संकरादाने नायं कुर्यात कथं चन
MBh 1.155.17
दृष्ट्वा फलस्य नापश्यद दॊषा ये ऽसयानुबन्धिकाः
विविनक्ति न शौचं यः सॊ ऽनयत्रापि कथं भवेत
MBh 1.155.18
संहिताध्ययनं कुर्वन वसन गुरु कुले च यः
भैक्षम उच्छिष्टम अन्येषां भुङ्क्ते चापि सदा सदा
कीर्तयन गुणम अन्नानाम अघृणी च पुनः पुनः
MBh 1.155.19
तम अहं फलार्थिनं मन्ये भरातरं तर्क चक्षुषा
तं वै गच्छस्व नृपते स तवां संयाजयिष्यति
MBh 1.155.20
जुगुप्समानॊ नृपतिर मनसेदं विचिन्तयन
उपयाज वचः शरुत्वा नृपतिः सर्वधर्मवित
अभिसंपूज्य पूजार्हम ऋषिं याजम उवाच ह
MBh 1.155.21
अयुतानि ददान्य अष्टौ गवां याजय मां विभॊ
दरॊण वैराभिसंतप्तं तवं हलादयितुम अर्हसि
MBh 1.155.22
स हि बरह्मविदां शरेष्ठॊ बरह्मास्त्रे चाप्य अनुत्तमः
तस्माद दरॊणः पराजैषीन मां वै स सखिविग्रहे
MBh 1.155.23
कषत्रियॊ नास्ति तुल्यॊ ऽसय पृथिव्यां कश चिद अग्रणीः
कौरवाचार्य मुख्यस्य भारद्वाजस्य धीमतः
MBh 1.155.24
दरॊणस्य शरजालानि पराणिदेहहराणि च
षड अरत्नि धनुश चास्य दृश्यते ऽपरतिमं महत
MBh 1.155.25
स हि बराह्मण वेगेन कषात्रं वेगम असंशयम
परतिहन्ति महेष्वासॊ भारद्वाजॊ महामनाः
MBh 1.155.26
कषत्रॊच्छेदाय विहितॊ जामदग्न्य इवास्थितः
तस्य हय अस्त्रबलं घॊरम अप्रसह्यं नरैर भुवि
MBh 1.155.27
बराह्मम उच्चारयंस तेजॊ हुताहुतिर इवानलः
समेत्य स दहत्य आजौ कषत्रं बरह्म पुरःसरः
बरह्मक्षत्रे च विहिते बरह्मतेजॊ विशिष्यते
MBh 1.155.28
सॊ ऽहं कषत्रबलाद धीनॊ बरह्मतेजः परपेदिवान
दरॊणाद विशिष्टम आसाद्य भवन्तं बरह्मवित्तमम
MBh 1.155.29
दरॊणान्तकम अहं पुत्रं लभेयं युधि दुर्जयम
तत कर्म कुरु मे याज निर्वपाम्य अर्बुदं गवाम
MBh 1.155.30
तथेत्य उक्ता तु तं याजॊ याज्यार्थम उपकल्पयत
गुर्वर्थ इति चाकामम उपयाजम अचॊदयत
याजॊ दरॊण विनाशाय परतिजज्ञे तथा च सः
MBh 1.155.31
ततस तस्य नरेन्द्रस्य उपयाजॊ महातपाः
आचख्यौ कर्म वैतानं तदा पुत्रफलाय वै
MBh 1.155.32
स च पुत्रॊ महावीर्यॊ महातेजा महाबलः
इष्यते यद विधॊ राजन भविता ते तथाविधः
MBh 1.155.33
भारद्वाजस्य हन्तारं सॊ ऽभिसंधाय भूमिपः
आजह्रे तत तथा सर्वं दरुपदः कर्मसिद्धये
MBh 1.155.34
याजस तु हवनस्यान्ते देवीम आह्वापयत तदा
परैहि मां राज्ञि पृषति मिथुनं तवाम उपस्थितम
MBh 1.155.35
[देवी]
अवलिप्तं मे मुखं बरह्मन पुण्यान गन्धान बिभर्मि च
सुतार्थेनॊपरुद्धास्मि तिष्ठ याज मम परिये
MBh 1.155.36
[याज]
याजेन शरपितं हव्यम उपयाजेन मन्त्रितम
कथं कामं न संदध्यात सा तवं विप्रैहि तिष्ठ वा
MBh 1.155.37
[बर]
एवम उक्ते तु याजेन हुते हविषि संस्कृते
उत्तस्थौ पावकात तस्मात कुमारॊ देवसंनिभः
MBh 1.155.38
जवाला वर्णॊ घॊररूपः किरीटी वर्म चॊत्तमम
बिभ्रत सखड्गः सशरॊ धनुष्मान विनदन मुहुः
MBh 1.155.39
सॊ ऽधयारॊहद रथवरं तेन च परययौ तदा
ततः परणेदुः पाञ्चालाः परहृष्टाः साधु साध्व इति
MBh 1.155.40
भयापहॊ राजपुत्रः पाञ्चालानां यशः करः
राज्ञः शॊकापहॊ जात एष दरॊण वधाय वै
इत्य उवाच महद भूतम अदृश्यं खेचरं तदा
MBh 1.155.41
कुमारी चापि पाञ्चाली वेदिमध्यात समुत्थिता
सुभगा दर्शनीयाङ्गी वेदिमध्या मनॊरमा
MBh 1.155.42
शयामा पद्मपलाशाक्षी नीलकुञ्चित मूर्धजा
मानुषं विग्रहं कृत्वा साक्षाद अमर वर्णिनी
MBh 1.155.43
नीलॊत्पलसमॊ गन्धॊ यस्याः करॊशात परवायति
या बिभर्ति परं रूपं यस्या नास्त्य उपमा भुवि
MBh 1.155.44
तां चापि जातां सुश्रॊणीं वाग उवाचाशरीरिणी
सर्वयॊषिद वरा कृष्णा कषयं कषत्रं निनीषति
MBh 1.155.45
सुरकार्यम इयं काले करिष्यति सुमध्यमा
अस्या हेतॊः कषत्रियाणां महद उत्पत्स्यते भयम
MBh 1.155.46
तच छरुत्वा सर्वपाञ्चालाः परणेदुः सिंहसंघवत
न चैतान हर्षसंपूणान इयं सेहे वसुंधरा
MBh 1.155.47
तौ दृष्ट्वा पृषती याजं परपेदे वै सुतार्थिनी
न वै मद अन्यां जननीं जानीयाताम इमाव इति
MBh 1.155.48
तथेत्य उवाच तां याजॊ राज्ञः परियचिकीर्षया
तयॊश च नामनी चक्रुर दविजाः संपूर्णमानसाः
MBh 1.155.49
धृष्टत्वाद अतिधृष्णुत्वाद धर्माद दयुत संभवाद अपि
धृष्टद्युम्नः कुमारॊ ऽयं दरुपदस्य भवत्व इति
MBh 1.155.50
कृष्णेत्य एवाब्रुवन कृष्णां कृष्णाभूत सा हि वर्णतः
तथा तन मिथुनं जज्ञे दरुपदस्य महामखे
MBh 1.155.51
धृष्टद्युम्नं तु पाञ्चाल्यम आनीय सवं विवेशनम
उपाकरॊद अस्त्रहेतॊर भारद्वाजः परतापवान
MBh 1.155.52
अमॊक्षणीयं दैवं हि भावि मत्वा महामतिः
तथा तत कृतवान दरॊण आत्मकीर्त्य अनुरक्षणात
🪷 The Honest Framing
This is the canonical Devanāgarī Sanskrit yathārtha. English + Hindi translations + classical commentaries arrive in future yajñas. To see the substrate's target-depth (5 English translations + Rāmsukhdās ji Hindi + 5 English commentaries + Sādhaka-Sañjīvanī Hindi vyākhyā per verse), visit any /bhagavad-gita/X/Y page. The Mahābhārata journey starts with the śloka.
Navigation
- ← Ādi-Parva chapter-index (225 chapters)
- ← Mahābhārata master-index (all 18 Parvas)
- ← Previous chapter · Ādi-Parva Ch 154
- Next chapter · Ādi-Parva Ch 156 →
🪷 जय व्यास भगवान् 🪷