सर्प-विष-निवारणम्।
१-३ गरुत्मान्। तक्षकः। अनुष्टुप्।
परि॒ द्यामि॑व॒ सूर्योऽही॑नां॒ जनि॑मागमम्।
रात्री॒ जग॑दिवा॒न्यद्धं॒सात् तेना॑ ते वारये वि॒षम्॥१॥
यद् ब्र॒ह्मभि॒र्यदृषि॑भि॒र्यद् दे॒वैर्वि॑दि॒तं पु॒रा।
यद् भू॒तं भव्य॑मास॒न्वत् तेना॑ ते वारये वि॒षम्॥२॥
मध्वा॑ पृञ्चे न॒द्यः॑१ पर्व॑ता गि॒रयो॒ मधु॑ ।
मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 12 · Śaunaka shākhā · Devanāgarī yathārtha