आनृण्यम्।
१-३ कौशिकः। वैश्वानरोऽग्निः। त्रिष्टुप्।
यददी॑व्यन्नृ॒णम॒हं कृ॒णोम्यदा॑स्यन्नग्न उ॒त सं॑गृ॒णामि॑ ।
वै॒श्वा॒न॒रो नो॑ अधि॒पा वसि॑ष्ठ॒ उदिन्न॑याति सुकृ॒तस्य॑ लो॒कम्॥१॥
वै॒श्वा॒न॒राय॒ प्रति॑ वेदयामि॒ यद्यृ॒णं सं॑ग॒रो दे॒वता॑सु ।
स ए॒तान् पाशा॑न् वि॒चृतं॑ वेद॒ सर्वा॒नथ॑ प॒क्वेन॑ स॒ह सं भ॑वेम ॥२॥
वै॒श्वा॒न॒रः प॑वि॒ता मा॑ पुनातु॒ यत् सं॑ग॒रम॑भि॒धावा॑म्या॒शाम्।
अना॑जान॒न् मन॑सा॒ याच॑मानो॒ यत् तत्रैनो॒ अप॒ तत् सु॑वामि ॥३॥
— Atharvaveda Kāṇḍa 6 · Sūkta 119 · Śaunaka shākhā · Devanāgarī yathārtha