🪷 Atharvaveda 5.19

Pañcama-Kāṇḍa · Sūkta 19

ब्रह्मगवि १-१५ मयोभूः। ब्रह्मगवि। अनुष्टुप्, २ विराट्-पुरस्ताद्बृबती, ७ उपरिष्टाद्बृहती। अ॒ति॒मा॒त्रम॑वर्धन्त॒ नोदि॑व॒ दिव॑मस्पृशन्। भृगुं॑ हिंसि॒त्वा सृञ्ज॑या वैतह॒व्याः परा॑भवन्॥१॥ ये बृ॒हत्सा॑मानमाङ्गिर॒समार्प॑यन् ब्राह्म॒णं जनाः॑ । पेत्व॒स्तेषा॑मुभ॒याद॒मवि॑स्तो॒कान्या॑वयत्॥२॥ ये ब्रा॑ह्म॒णं प्र॒त्यष्ठी॑व॒न् ये वा॑स्मिञ्छु॒ल्कमी॑षि॒रे। अ॒स्नस्ते मध्ये॑ कु॒ल्यायाः॒ केशा॒न् खाद॑न्त आसते ॥३॥ ब्र॒ह्म॒ग॒वी प॒च्यमा॑ना॒ याव॒त् साभि वि॒जङ्ग॑हे । तेजो॑ रा॒ष्ट्रस्य॒ निर्ह॑न्ति॒ न वी॒रो जा॑यते॒ वृषा॑ ॥४॥ क्रू॒रम॑स्या आ॒शस॑नं तृ॒ष्टं पि॑शि॒तम॑स्यते । क्षी॒रं यद॑स्याः पी॒यते॒ तद् वै पि॒तृषु॒ किल्बि॑षम्॥५॥ उ॒ग्रो राजा॒ मन्य॑मानो ब्राह्म॒णं यो जिघ॑त्सति । परा॑ तत् सि॑च्यते रा॒ष्ट्रं ब्रा॑ह्म॒णो यत्र॑ जी॒यते॑ ॥६॥ अ॒ष्टाप॑दी चतुर॒क्षी चतुः॑श्रोत्रा॒ चतु॑र्हनुः । द्व्याऽस्या॒ द्विजि॑ह्वा भू॒त्वा सा रा॒ष्ट्रमव॑ धूनुते ब्रह्म॒ज्यस्य॑ ॥७॥ तद् वै रा॒ष्ट्रमा स्र॑वति॒ नावं॑ भि॒न्नामि॑वोद॒कम्। ब्र॒ह्माणं॒ यत्र॒ हिंस॑न्ति॒ तद् रा॒ष्ट्रं ह॑न्ति दु॒च्छुना॑ ॥८॥ तं वृ॒क्षा अप॑ सेधन्ति छा॒यां नो॒ मोप॑गा॒ इति॑ । यो ब्रा॑ह्म॒णस्य॒ सद् धन॑म॒भि ना॑रद॒ मन्य॑ते ॥९॥ वि॒षमे॒तद् दे॒वकृ॑तं॒ राजा॒ वरु॑णोऽब्रवीत्। न ब्रा॑ह्म॒णस्य॒ गां ज॒ग्ध्वा रा॒ष्ट्रे जा॑गार॒ कश्च॒न॥१०॥ नवै॒व ता न॑व॒तयो॒ या भूमि॒र्व्यऽधूनुत । प्र॒जां हिं॑सि॒त्वा ब्राह्म॑णीमसंभ॒व्यं परा॑भवन्॥११॥ यां मृ॒ताया॑नुब॒ध्नन्ति॑ कू॒द्यंऽ पद॒योप॑नीम्। तद् वै ब्र॑ह्मज्य ते दे॒वा उ॑प॒स्तर॑णमब्रुवन्॥१२॥ अश्रू॑णि॒ कृप॑मानस्य॒ यानि॑ जी॒तस्य॑ वावृ॒तुः । तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन्॥१३॥ येन॑ मृ॒तं स्न॒पय॑न्ति॒ श्मश्रू॑णि॒ येनोन्दते॑ । तं वै ब्र॑ह्मज्य ते दे॒वा अ॒पां भा॒गम॑धारयन्॥१४॥ न व॒र्षं मै॑त्रावरु॒णं ब्र॑ह्म॒ज्यम॒भि व॑र्षति । नास्मै॒ समि॑तिः कल्पते॒ न मि॒त्रं न॑यते॒ वश॑म्॥१५॥
— Atharvaveda Kāṇḍa 5 · Sūkta 19 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷