🪷 Atharvaveda 11.8

Ekādaśa-Kāṇḍa · Sūkta 8

अध्यात्मम्। १-३४ कौरुपथिः। अध्यात्मं, मन्युः। अनुष्टुप्, ३३ पथ्यापङ्क्तिः। यन्म॒न्युर्जा॒यामाव॑हत् संक॒ल्पस्य॑ गृ॒हादधि॑ । क आ॑सं॒ जन्याः॒ के व॒राः क उ॑ ज्येष्ठव॒रोऽभवत्॥१॥ तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यऽर्ण॒वे। त आ॑सं॒ जन्या॒स्ते व॒रा ब्रह्म॑ ज्येष्ठव॒रोऽभवत्॥२॥ दश॑ सा॒कम॑जायन्त दे॒वा दे॒वेभ्यः॑ पु॒रा। यो वै तान् वि॒द्यात् प्र॒त्यक्षं॒ स वा अ॒द्य म॒हद् व॑देत्॥३॥ प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॒नो॒दा॒नौ वाङ् मन॒स्ते वा आकू॑ति॒माव॑हन्॥४॥ अजा॑ता आसन्नृ॒तवोऽथो॑ धा॒ता बृह॒स्पतिः॑ । इ॒न्द्रा॒ग्नी अ॒श्विना॒ तर्हि॒ कं ते ज्ये॒ष्ठमुपा॑सत ॥५॥ तप॑श्चै॒वास्तां॒ कर्म॑ चा॒न्तर्म॑ह॒त्यर्ण॒वे। तपो॑ ह जज्ञे॒ कर्म॑ण॒स्तत् ते ज्ये॒ष्ठमुपा॑सत ॥६॥ येत आसी॒द् भूमिः॒ पूर्वा॒ याम॑द्धा॒तय॒ इद् वि॒दुः । यो वै तां वि॒द्यान्ना॒मथा॒ स म॑न्येत पुराण॒वित्॥७॥ कुत॒ इन्द्रः॒ कुतः॒ सोमः॒ कुतो॑ अ॒ग्निर॑जायत । कुत॒स्त्वष्टा॒ सम॑भव॒त् कुतो॑ धा॒ताजा॑यत ॥८॥ इन्द्रा॒दिन्द्रः॒ सोमा॒त् सोमो॑ अ॒ग्नेर॒ग्निरजायत । त्वष्टा॑ ह जज्ञे॒ त्वष्टु॑र्धा॒तुर्धा॒ताजा॑यत ॥९॥ ये त आस॒न् दश॑ जा॒ता दे॒वा दे॒वेभ्यः॑ पु॒रा। पु॒त्रेभ्यो॑ लो॒कं द॒त्त्वा कस्मिं॒स्ते लो॒क आ॑सते ॥१०॥ य॒दा केशा॒नस्थि॒ स्नाव॑ मां॒सं म॒ज्जान॒माभ॑रत्। शरी॑रं कृ॒त्वा पाद॑व॒त् कं लो॒कमनु॒ प्रावि॑शत्॥११॥ कुतः॒ केशा॒न् कुतः॒ स्नाव॒ कुतो॒ अस्थी॒न्याभ॑रत्। अङ्गा॒ पर्वा॑णि म॒ज्जानं को मां॒सं कुत॒ आभ॑रत्॥१२॥ सं॒सिचो॒ नाम॒ ते दे॒वा ये सं॑भा॒रान्त्स॒मभ॑रन्। सर्वं॑ सं॒सिच्य॒ मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥१३॥ ऊ॒रू पादा॑वष्ठी॒वन्तौ॒ शिरौ॒ हस्ता॒वथो॒ मुख॑म्। पृ॒ष्टीर्ब॑र्ज॒ह्ये पा॒र्श्वे कस्तत् सम॑दधा॒दृषिः॑ ॥१४॥ शिरो॒ हस्ता॒वथो॒ मुखं॑ जि॒ह्वां ग्री॒वाश्च॒ कीक॑साः । त्व॒चा प्रा॒वृत्य॒ सर्वं॒ तत् सं॒धा सम॑दधान्म॒ही॥१५॥ यत् तच्छरी॑र॒मश॑यत् सं॒धया॒ संहि॑तं म॒हत्। येने॒दम॒द्य रोच॑ते॒ को अ॑स्मि॒न् वर्ण॒माभ॑रत्॥१६॥ सर्वे॑ दे॒वा उपा॑शिक्ष॒न् तद॑जानाद् व॒धूः स॒ती। ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न् वर्ण॒माभ॑रत्॥१७॥ य॒दा त्वष्टा॒ व्यतृ॑णत् पि॒ता त्वष्टु॒र्य उत्त॑रः । गृ॒हं कृ॒त्वा मर्त्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥१८॥ स्वप्नो॒ वै त॒न्द्रीर्निरृ॑तिः पा॒प्मानो॒ नाम॑ दे॒वताः॑ । ज॒रा खाल॑त्यं॒ पालि॑त्यं॒ शरी॑र॒मनु॒ प्रावि॑शन्॥१९॥ स्तेयं॑ दुष्कृ॒तं वृ॑जि॒नं स॒त्यं य॒ज्ञो यशो॑ बृ॒हत्। बलं॑ च क्ष॒त्रमोज॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२०॥ भूति॑श्च॒ वा अभू॑तिश्च रा॒तयोऽरा॑तयश्च॒ याः । क्षुध॑श्च॒ सर्वा॒स्तृष्णा॑श्च॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२१॥ नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च । शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन्॥२२॥ वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यऽम्। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥२३॥ आ॒न॒न्दा मोदाः॑ प्र॒मुदो॑ऽभिमोद॒मुद॑श्च॒ ये। ह॒सो न॒रिष्टा॑ नृ॒त्तानि॒ शरी॑र॒मनु॒ प्रावि॑शन्॥२४॥ आ॒ला॒पाश्च॑ प्रला॒पाश्चा॑भिलाप॒लप॑श्च॒ ये। शरी॑रं॒ सर्वे॒ प्रावि॑शन्ना॒युजः॑ प्र॒युजो॒ युजः॑ ॥२५॥ प्रा॒णा॒पा॒नौ चक्षुः॒ श्रोत्र॒मक्षि॑तिश्च॒ क्षिति॑श्च॒ या। व्या॒नो॒दा॒नौ वाङ् मनः॒ शरी॑रेण॒ त ई॑यन्ते ॥२६॥ आ॒शिष॑श्च प्र॒शिष॑श्च सं॒शिषो॑ वि॒शिष॑श्च॒ याः । चि॒त्तानि॒ सर्वे॑ संक॒ल्पाः शरी॑र॒मनु॒ प्रावि॑शन्॥२७॥ आस्ते॑यीश्च॒ वास्ते॑यीश्च त्वर॒णाः कृ॑प॒णाश्च॒ याः । गुह्याः॑ शु॒क्रा स्थू॒ला अ॒पस्ता बी॑भ॒त्साव॑सादयन्॥२८॥ अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन्। रेतः॑ कृ॒त्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन्॥२९॥ या आपो॒ याश्च॑ दे॒वता॒ या वि॒राड् ब्रह्म॑णा स॒ह। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒च्छरी॒रेऽधि॑ प्र॒जाप॑तिः ॥३०॥ सूर्य॒श्चक्षु॒र्वातः॑ प्रा॒णं पुरु॑षस्य॒ वि भे॑जिरे । अथा॒स्येत॑रमा॒त्मानं॑ दे॒वाः प्राय॑च्छन्न॒ग्नये॑ ॥३१॥ तस्मा॒द् वै विद्वान् पुरु॑षमि॒दं ब्रह्मेति॑ मन्यते । सर्वा॒ ह्यऽस्मिन् दे॒वता॒ गावो॑ गो॒ष्ठ इ॒वास॑ते ॥३२॥ प्र॒थ॒मेन॑ प्रमा॒रेण॑ त्रे॒धा विष्व॒ङ् वि ग॑च्छति । अ॒द एके॑न॒ गच्छ॑त्य॒द एके॑न गच्छती॒हैके॑न॒ नि षे॑वते ॥३३॥ अ॒प्सु स्ती॒मासु॑ वृ॒द्धासु॒ शरी॑रमन्त॒रा हि॒तम्। तस्मिं॒छवोऽध्य॑न्त॒रा तस्मा॒च्छवोऽध्यु॑च्यते ॥३४॥
— Atharvaveda Kāṇḍa 11 · Sūkta 8 · Śaunaka shākhā · Devanāgarī yathārtha

Navigation

🪷 ॐ 🪷